OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 12, 2022

 डो. एस् सोमनाथः भारतीय - बहिराकाश - अनुसन्धान - सङ्घटनस्य (Indian space research organisation) सभापतिः।

 एस् सोमनाथः भारतीय - बहिराकाश -अनुसन्धान संघटनस्य सभापतिरूपेण नियुक्तः। इदानीं सः तिरुवनन्तपुरं विक्रं साराभाई बहिराकाशकेन्द्रस्य निदेशकः भवति। केरले आलप्पुषा तुरवूर् देशीयः डो. सोमनाथः पूर्वं  द्रवेन्धनयन्त्रप्रवर्तनकेन्द्रस्य (liquid propellison system centre) अध्यक्षः आसीत्। सेवानिवृत्तस्य डो. के शिवस्य स्थाने एव डो. सोमनाथः नियुक्तः। एम् जि के मेनोन्, के कस्तूरी रङ्गन्, माधवन् नायर्, राधाकृष्णः इत्यादयः केरलीयाः पूर्वं एतां पदवीं अलङ्कृतेषु प्रमुखाः भवन्ति। अग्निबाणप्रौद्योगिकविद्यायां रूपरचनायां च अग्निबाणेन्धनस्फुटीकरणविषये तस्य योगदानं पुरस्कृत्य भवति तस्य सभापतिस्थाने नियुक्तिः।