OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 30, 2022

कनडा राजधानीं वलयित्वा फ्रीडं कोण्वोय्। ट्रूडो रहस्यकेन्द्रे इति सूचना।


ओट्टाव> कनडदेशस्य प्रधानमन्त्री जस्टिन् ट्रूडो, तस्य कुटुम्बाङ्गाः च औद्योगिकवासस्थानात् रहस्यकेन्द्रं नीताः इति सूचना। कनडेषु कोविड्वाक्सिनस्य निर्बन्धस्वीकारं विरुध्य लोकसभामन्दिरस्य पुरतः प्रचलितस्य प्रचलितस्य प्रतिषेधस्य सन्दर्भे सुरक्षां परिगणय्य प्रधानमन्त्रिणं ट्रूडं सुरक्षाकेन्द्रं नीतः इति विदेशवार्तामाध्यमैः प्रतिवेदितम्। निर्बन्धवाक्सिनीकरणं विरुध्य 'फ्रीडं कोण्वोय्' नामकस्य सहस्रशः भारवाहकयानचालकानां संधैः कृताय अपूर्वप्रतिषेधाय कानडाराष्ट्रं साक्ष्यमावहत् अस्ति। कानडेषु प्रतिशतं ९० जनाः वाक्सिनं न स्वीकृताः। अतः अमेरिक्कायाः कानडस्य च मिथः यात्रां कुर्वन्तः भारवाहकयानचालकाः निर्बन्धतया वाक्सिनं स्वीकरणीयः इति कनेडियस्य प्रधानमन्त्रिणः जस्टिन् ट्रूडोवर्यस्य आदेशं विरुध्य यानचालकाः अन्ये प्रतिषेधकारकाः च इदानीं यानव्यूहसहितं कनडम् आलक्ष्य चलन्तः सन्ति। राष्ट्रस्य विविधप्रदेशात् भारवाहकयानानि वान्कूर् नाम देशे आनीय जनुवरि मासस्य २३ तमे दिनाङ्के एव प्रतिषेधयात्रा समारब्धा।