OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 4, 2022

 १२,००० । किलो भारयुक्तं लोकयानं केशैः आकृष्य भारतीयवनितया गिन्नस् अभिलेखः विरचितः। 

 गिन्नस् अभिलेखेषु स्थानं प्राप्तानां विभिन्नक्षमतायुक्तानां वार्ताः सर्वसाधारण एव। एकहोराभ्यन्तरे सहस्रशः हस्तेषु अलक्तकेन वर्णचित्राणि विरच्य गिन्नस् अभिलेखेषु स्थानं प्राप्ता  भारतीयवनिता आदित्या समीपकाले वार्तामाध्यमद्वारा सर्वेषां प्रशंसाभाजनमभवत्। इदानीं  लोकयानं स्वकेशैः आकृष्य गिन्नस् अभिलेखे स्थानं प्राप्तायाः वनितायाः चलनचित्रखण्डं सर्वेषां श्रद्धां आकर्षति। आशाराणी नाम भारतीयवनिता एव स्वकेशैः लोकयानं आकृष्यति। उभयतः ग्रथितस्य केशस्य अग्रे स्थूलं  सूत्रमुपयुज्य निबध्य लोकयानेन सह योजयित्वा आकृष्यमाणं चित्रमेव चलनचित्रखण्डे मुद्रितम् वर्तते। गिन्नस् अभिलेखः एव अयम् इति विज्ञाय नेत्राभ्यां आनन्दाश्रूणि धारयन्तं रूपमपि चलनचित्रखण्डे द्रष्टुं शक्यते।