OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 9, 2022

 पञ्चसु राज्येषु विधानसभानिर्वाचनमूद्घुष्टम्।

फेब्रुवरी १० आरभ्य मार्च् ७पर्यन्तम्। 

नवदिल्ली> उत्तरप्रदेशः, पञ्चाबः,उत्तराखण्डः,गोवा, मणिप्पुरम् इत्येतेषु राज्येषु विधानसभानिर्वाचनम् उद्घुष्टम्। फेब्रुवरी १० दिनाङ्कादारभ्य मार्च् ७ दिनाङ्कपर्यन्तम् विविधैः सोपानैः निर्वाचनं विधास्यतीति केन्द्रनिर्वाचनायोगस्य मुख्यायोगेन सुशीलचन्द्रेण वार्ताहरसम्मेलने निगदितम्। 

   उत्तरप्रदेशे सप्तसोपानैः निर्वाचनं विधास्यति - फेब्रु १०, १४, २०, २३, २७, मार्च् ३, ७ दिनाङ्केषु। मणिप्पुरे फेब्रु २७,मार्च्३ दिनाङ्कयोः सोपानद्वयेन भविष्यति। गोवा पञ्चाब उत्तराखण्ड राज्येषु फेब्रु १४तमे सोपानेनैकेन निर्वाचनं भविष्यति। 

  कोविड्व्यापनस्य आधारे जनु १५ पर्यन्तं सर्वत्र पथसञ्चलनानि, निर्वाचनमेलनानि, वीथीदृश्यमित्येतेषां निरोधः विहितः। पञ्चसु राज्येष्वपि निर्वाचनसम्बन्धा व्यवहारव्यवस्था विधत्ता।