OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 19, 2022

 विख्यातः कथक् नर्तनाचार्यः बिर्जु महाराजः दिवंगतः। 


नवदिल्ली> उत्तरप्रदेशस्य परम्परागतनृत्तरूपं कथक् नामकं विश्वप्रसिद्धं कर्तुं कृतप्रयत्नः विख्यातनर्तकः पण्डितः बिर्जु महाराजः स्मरणावशेषः अभवत्। फेब्रुवरि ४दिनाङ्के ८४ तमजन्मदिनम् अघुष्यमाणः सः रविवासरस्य अर्धरात्रे झटिति जातेन देहास्वास्थ्येन दिवंगतः। 

  पद्मविभूषणं, संगीतनाटकअक्कादमीपुरस्कारः,कालिदाससम्मानं, राजीवगान्धी सद्भावनापुरस्कारः, सोवियट् लान्ट् नेह्रूपुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः समादृतः आसीत्। गायकः तालवाद्यवादकः चायं हिन्दुस्थानिसंगीते अगाधज्ञानी चासीत्।