OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 18, 2022

 अफ्गानिस्थाने क्लेशपर्व - अपत्यान्यपि विक्रीय उपजीवन्ति जनाः। 

काबूल्> अफ्गानिस्थाने युद्धानन्तरं सर्वं विनष्टीभूय अनाथीकृताः जनाः स्वावयवान् अपत्यानि अपि विक्रीय उपजीवनं कुर्वन्तीति वृत्तान्तः। दुर्भिक्षायां क्लेशमनुभूयमानस्य राष्ट्रस्य आर्थिकावस्थां तिलमात्रमपि उन्नेतुं तालिबानप्रशासनेन नाशक्यत इत्यस्य दृष्टान्तः इयं दुरवस्था। 

  भूतपूर्वसर्वकारसेना तथा तालिबानीयभटाश्च परस्परयुद्धं यत्र यत्र  तीव्रभूतमभवत् बल्ख्, सरे पुल् , पर्याब्, जोस्जान् इत्यादिभ्यः स्थानेभ्यः पलायिताः एव ईदृशं क्लेशमनुभवन्तीति 'टोलो न्यूस्' पत्रिकया आवेदितमस्ति। अपत्यानां कृते ७०,००० आरभ्य लक्षपर्यन्तमेव  विक्रयणावसरे मूल्यं निश्चितम्। दारिद्र्यनिमित्तेन वयं सर्वे एतदर्थं निर्बन्धिताः इति मसारी षरीफ् प्रदेशमधिवसन्तः परिवारः अवदत्।