OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 26, 2022

नूतनैः सविशेषकार्यक्रमैः भारतेन ७३तमं गणतन्त्रदिनमाघुष्टम्।

नवदिल्ली> बहुभिः नूतनैः सविशेषकार्यक्रमैः भारतमद्य ७३तमं गणतन्त्रदिनमाघुष्टम्।  कोविडस्य कारणेन विदेशराष्ट्रनेतारः यः कोSपि मुख्यातिथिरूपेण न भागं स्वीकुर्वन्ति स्म। 

  सर्वसैन्याधिपः राष्ट्रपतिः सैनिकानां पथसञ्चलने अभिवाद्यं स्वीकृतवान्। प्रधानमन्त्री नरेन्द्रमोदी बलिदानिनां कृते आदराञ्जलिं समार्पयत्। 

  केवलं १४,००० जनेभ्यः एव गणतन्त्रदिनोत्सवकार्यक्रमान् अभिवीक्षितुमवसरः अस्ति। तेषु कोविडं विरुद्धप्रवर्तकेषु अग्रस्थाः, त्रिचक्रिकाचालकाः, स्वच्छताकर्मकारिण‌ः, निर्माणकर्मकराः इत्येषां कृते वेदिकायामासनानि सज्जीकृतानि सन्ति।