OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 11, 2022

 डो एम् पि उण्णिकृष्णः डो पि के शङ्करनारायणश्च विश्वसंस्कृतप्रतिष्ठानस्य पुरस्कारेण समादृतौ। 


पत्तनंतिट्टा /केरळम्> विश्वसंस्कृतप्रतिष्ठानेन (संस्कृतभारती) दीयमानः अस्य संवत्सरस्य पण्डितरत्नपुरस्कारः डो एम् पि उण्णिकृष्णाय, श्रेष्ठाध्यापकाय दीयमानः शर्माजी पुरस्कारः डो पि के शङ्करनारायणाय च अलभत। गतदिने पन्तलं 'लयण्स् क्लब्' सभागृहे आयोजिते कार्यक्रमे पुरस्कारदानं कृतम्। 
  डो एम् पि उण्णिकृष्णः पन्तलस्थे एन् एस् एस् कलालये अध्यापकः आसीत्। बहुकालं विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षश्चासीत्। संस्कृतप्रचाराय तस्य योगदानं निस्तुलमेवेति पुरस्कारनिर्णयसमित्या निरीक्षितम्। 


 केरलस्य सामाजिकप्रतिबद्धतायुक्तेभ्यः निस्वार्थेभ्यः संस्कृतसेवानिरतेभ्यः शिक्षकश्रेष्ठेभ्यः दीयमानः पुरस्कारो भवति 'शर्माजीपुरस्कारः'। पुरस्कारार्हः डो पि के शङ्करनारायणः एरणाकुलं जनपदे श्रीमूलनगरं प्रदेशस्थे 'अकवूर् उच्चविद्यालये' अध्यापकः अस्ति। आकाशवाणीद्वारा सुभाषितप्रवचनेन प्रसिद्धः सः विश्वसंस्कृतप्रतिष्ठानस्य प्रकाशनविभागाध्यक्षरूपेणापि सेवां करोति। संस्कृतसम्बन्धिषु विविधमण्डलेषु कृतहस्ततां प्रकाशितवतः तस्य संस्कृतप्रचारसेवा अनुपमेति पुरस्कारनिर्णयसमित्या निरीक्षितम्।

  गरुसपर्या इति कृतनामधेयस्य अस्य कार्यक्रमस्य उद्घाटनं केरलविधानसभायाः उपाध्यक्षः चिट्टयं गोपकुमारः अकरोत्। संस्कृतं विश्वे महत्तमा भाषेति उद्घाटनभाषणे तेनोक्तम्। अस्माकं सांस्कृतिकाध्यात्मिकसम्पदः स्रोतः भवत्येषा भाषा इति तेन सूचितम्। विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयाध्यक्षः डो पि के माधवः अध्यक्षपदमलंकृतवान्। संस्कृतभारत्याः अखिलभारतसचिवमुख्यः श्रीशदेवपूजारी मुख्यभाषणमकरोत्। उज्जयिन्यां महर्षि पाणिनि विश्वविद्यालयस्य कुलपतिः डो सि जि विजयकुमारः विशिष्टातिथिरूपेण भागं स्वीकृतवान्।