OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 2, 2022

 ओमिक्रोण् प्रकरणानि वर्धिष्यन्ते; चिकित्सालयाः सज्जाः भवितव्याः। 

नवदिल्ली> राष्ट्रे ओमिक्रोण् प्रकरणेषु अत्यधिका वर्धना भविष्यतीत्यतः आराष्ट्रं चिकित्सालयसंविधानानि कार्यक्षमाणि शक्तानि च करणीयानीति केन्द्रसर्वकारः राज्यसर्वकारानादिशत्। 

  एकान्तवासाय तल्पा‌ः, ऐ सि यू तल्पाः, बालकानां कृते सविशेषविभागः, प्राणवायुसम्भरण्यः, 'आम्बुलन्स्'यानानि, अवश्यौषधसञ्चयः इत्यादयः सज्जीकरणीयाः। कोविड्भावात्मकेषु ये तीव्रलक्षणाभावाः वर्तन्ते ते स्वगृहेषु एव एकान्तवासं समनुष्ठातव्याः। येषां कृते अतीव चिकित्सा अवश्यकी तान्  चिकित्सालयं नेतुमर्हन्ति। 

  रोगव्यापनस्य पूर्णनिरोधाय केन्द्रस्वास्थ्यमन्त्रालयस्य सर्वविधाभियोगः भविष्यतीति मन्त्रालयेन स्पष्टीकृतम्।