OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 13, 2023

 दिल्ली - मुम्बई 'एक्स्प्रस्' वीथेः प्रथमसोपानम् उद्घाटितम्। 

दौसा [राजस्थानं]> दिल्लीतः मुम्बई पर्यन्तं निर्माणमारब्धस्य  'एक्स्प्रस्' वीथेः २४६ कि मी दैर्घ्ययुक्तं  प्रथमसोपानं राजस्थानस्य दौसायां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। अनेन सह अन्यासां तिस्राणां परियोजनानां शिलान्यासमपि तेन कृतम्। 

  राजवीथयः, रेल् मार्गः, महानौकापत्तनं, वैद्यकलालयः इत्यादिषु क्षेत्रेषु सर्वकारस्य राशिनिक्षेपः उद्योगानां आपणिकानां च शक्तिवर्धनाय सहायकं भवतीति प्रधानमन्त्रिणा उक्तम्। 

  निर्माणस्य पूर्तीकरणेन  भारतस्य दीर्घतमम् अतिवेगमार्गो भविष्यति १३८६ कि मी दीर्घयुक्तं  दिल्ली - मुम्बई 'एक्स्प्रस्' वीथिः। एकलक्षं कोटि रूप्यकाण्येव प्रतीक्षितः व्ययः। दिल्लीतः मुम्बई पर्यन्तं सञ्चारसमयः १२ होरारूपेण न्यूनीकरिष्यति। इदानीं २४ होराः आवश्यकाः। तथा च जयपुरं - दिल्ली मार्गः ५ होरातः ३  होरादीर्घयुक्तो भविष्यति।