OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 4, 2023

 गायिका वाणी जयराम् दिवङ्गता।

   चेन्नै> विश्रुतगायिका वाणी जयराम्(७७) दिवङ्गता। चेन्नै नगरे स्क्वासस्थाने एव अन्त्यम्। सा १९४५ तमे संवत्सरे तमिल्नाडु राज्ये वेल्लूर् देशे एव जनिमलभत। तस्याः यथार्थ नाम कलैवाणी इत्यासीत्। एषा गतसप्ताहे केन्द्रसर्वकारेण पद्मभूषण् पुरस्कारेण समादृता आसीत्। १९७१ तमे संवत्सरे गुड्डी नाम चलनचित्रे 'बोले रे पप्पी' नाम गीतालपनेन विश्रुता अभवत्। वसन्त् देशायी आसीत् गीतस्य सङ्गीतकारः। त्रिवारं भारतसर्वकरस्य राष्ट्रियपुरस्कारेण एषा समादृता च । अनया१९ भाषासु गीतानि आलपितानि।