OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 25, 2023

 'नवशिक्षानीतिपरिप्रेक्ष्ये आत्मनिर्भरभारतम्' इतिविषयं समाधृत्यायोजिता सङ्गोष्ठी

  चराचरजगत्यस्मिन् पशुभ्यो भिन्नो मनुष्य इत्यस्य हेतुरस्ति शिक्षा। शिक्षाभावे विवेकहीनो मनुष्यः पशुवद्व्यवहरति। शास्त्रेषूक्तमप्यस्ति यत्– विद्याविहीनः पशुभिः समानः। भारतीयसमाजे तु प्राचीनकालादेव शिक्षायाः महत्त्वं सर्वत्र दरीदृश्यते। गतवर्षे भारतसर्वकारेण नवशिक्षानीति-२० सङ्कल्पितासीत्। तदनुसारेणैव भारतीयशिक्षाप्रणाल्यां भारतस्य गौरवभूता या प्राचीनविद्या अस्ति सा इदानीं छात्राणां पाठ्यक्रमे भविष्यतीति विचिन्त्यैव सर्वकारेण नवशिक्षानीति-२० निर्मितासीत्। नवशिक्षानीतिमधिकृत्य प्रायशः सर्वासु संस्थासु सङ्गोष्ठी, सम्मेलनम्, कार्यशाला इत्यादयः आयोजिता आसन् भवन्ति च। तथैव श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागेन ‘आत्मनिर्भर भारतं राष्ट्रियशिक्षा-नीति-२०२० के परिप्रेक्ष्य में’ इतिविषयमधिकृत्य फरवरीमासस्य २३-२४तमे दिनाङ्कं यावत् द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः आयोजनं कृतमस्ति। अस्यां सङ्गोष्ठ्यां राष्ट्रस्य भिन्न-भिन्नप्रान्तेभ्यो नैके विषयविशेषज्ञाः आहूताः सन्ति। अस्यां सङ्गोष्ठ्यां ‘भारतीय ज्ञान परम्परा, कला एवं संस्कृति, कौशल विकास, उद्यमिता एवं प्रौद्योगिकी शिक्षा, नारी सशक्तिकरण, समतामूलक समावेसी शिक्षा, बहुविषयक/बहुभाषिक शिक्षा, पर्यावरण एवं सुस्थिर विकास, योगशिक्षा’ प्रभृत्युपविषयान्नधिकृत्य व्याख्यानानि शोधपत्रप्रस्तुतानि च सन्ति। अनया सङ्गोष्ठ्या छात्रेषु, शोधच्छात्रेषु, प्रतिभागिषु च भारतीयशिक्षाप्रणालीं नवशिक्षानीतिं प्रति च विशेषज्ञानस्य प्रवाहो भविष्यति, ते नवशिक्षानीत्यनुसारमेव उपाधिं प्राप्स्यन्ति, नवशिक्षानीतेः प्रचारं प्रसारं करिष्यन्ति, तद्विषयकभ्रान्तिञ्च विनश्यन्ति।