OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 4, 2023

 अमेरिक्कस्य व्योमसीम्नि चीनस्य गुप्तवायुगोलः। पेन्टगण् अतीव जाग्रतायां वर्तते।  

    वाषिङ्टण्> अमेरिक्का - चीनयोर्मध्ये संघर्षं जनयन् चीनस्य गुप्तवायुगोलः (Spy balloon) अमेरिक्कस्य व्योमसीम्नि दृष्टः। अमेरिक्कस्य व्योमसीम्नि सन्देहरूपेण दृष्टं वायुगोलम् अधिकृत्य वार्ता बहिरागता। अमेरिक्कस्य राज्यकार्यदर्शी आन्टणी ब्लिङ्कणः चीनादेशसन्दर्शनाय प्रस्थातुम् आरब्धे सन्दर्भे एव चीनस्य वायुगोलः आकाशे दृष्टः। अमेरिक्कस्य रहस्यानि गूढमार्गेण चोरयितुम् उद्दिश्य चीनस्य प्रयत्नमित्येतत् इति अमेरिक्कः आशङ्कते।