OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 10, 2023

 भारत-आस्ट्रेलिया क्रिक्कट् निकषस्पर्धा आरब्धा। 

प्रथमक्रीडायाम् आस्ट्रेलियायै १७७ धावनाङ्काः। 

नागपुरं> बोडर् - गवास्कर् चषकाय आयोज्यमाना भारत-आस्ट्रेलिययोः क्रिक्कट् निकषस्पर्धा भारते नागपुरे आरब्धा। निकषपरम्परायाः प्रथमस्पर्थायाः प्रथमक्रीडायां [Innings] कन्दुकताडनं कृतवान् आस्ट्रेलियादलः १७७ धावनाङ्कान् सम्प्रप्य बहिर्गतः। प्रथमदिनक्रीडायां समाप्तायां भारतं ताडकैकस्य विनष्टे ७७ धावनाङ्कान् सम्प्राप्तवत्। भारतस्य नायकः रोहितशर्मा अर्धशतकं सम्प्राप्य क्रीडायामनुवर्तमानः अस्ति। 

  प्रथमं भारतस्य कन्दुकक्षेपकः रवीन्द्र जडेजः ४७ धावनाङ्कान् प्रदाय पञ्च ताडकान् बहिर्नीतवान्।