OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 18, 2023

 गुजराते पतिताः गोलशिलाखण्डाः अपूर्वाः इति गवेषकाः।


अहम्मदाबादः> गुजरातराज्यस्य बनस्कन्धजनपदे ग्रामद्वये गतवर्षे आगस्टमासस्य १७तमे दिनाङ्के पतिताः गोलशिलाखण्डाः असाधारणाः इति गोलशास्त्रविचक्षणैः प्रत्यभिज्ञातम्। तेषां गोलशिलाखण्डानां बुधग्रहेण सह सादृश्यमप्यस्तीति गवेषकैः उक्तम्। तेषामनुसन्धानं ग्रहपरिणामधिकृत्य विज्ञाने सहायकं भविष्यतीति अनुमीयते। 

  रावेल् रन्तीला नामकयोः ग्रामयोः प्रदेशेषु एव गोलशिलाखण्डाः आकाशान्निपतिताः। अहम्मदाबादस्थे भूतविज्ञानीयगवेषणशालायां [Physical Research Laboratory] एते खण्डाः संशोधिताः आसन्। अस्मिन् संशोधने 'ओब्रैट्' विभागे अन्तर्भूताः शिलाखण़्डाः एते इति दृढीकृतम्।