OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 16, 2023

 उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् क्षमं टाङ्क् ५७ लिट्टर् तैलेन्धनेन पूरितम् । वितरणकेन्द्रं पिहितम्।

  नवदिल्ली> मध्यप्रदेशस्य उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् संभरणतशक्तिमितम् इन्धन'टाङ्क्' ५७ लिट्टर् तैलेन पूरितम्। वितरणकेन्द्रं पिहितम्। जबलपुरस्य सिट्टी फ्युवल्स् नाम केन्द्रं भवति इदम्। 

   न्यायाधीशस्य तैलवितरण-केन्द्रागमनसमये याने अल्पं तैलमासीत्। यानचालकः तैलसंभरण्यः पूर्णपूरणाय निर्दोशो दत्तवान्। कर्मकरः तैलस्य पूरणानन्तरं ५७ लिट्टर् इन्धनं पूरितम् इति प्रदर्शितं देयकं दत्तवान्। ५० लिट्टर् इन्धनक्षमतामितं भरणी ५७ लिट्टर् इन्धनेन पूरितम् इति ज्ञात्वा न्यायाधीशः स्तब्धः अभवत्। विना विलम्बं तैलेन्धन-वितरणकेन्द्रं पिहितं च।