OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 25, 2023

 सुभाषितेन छात्राः सन्तुष्टाः - शिक्षकाः कृतार्थाः ।

   केरलम् पालक्काट्> केरलराज्यस्तरीय- शैक्षिकानुसन्धान-संस्थया आयोजिते नवाध्यापकसंङ्गमे छात्रेभ्यः आदर्शकक्ष्या प्रचालिता। विशेषज्ञः शिक्षकः डा. सुनिल् कुमार: कक्ष्यां चालितवान्। सूचना तथा संचार प्रौद्योगिकी सुविधाम् उपयुज्य आसीत् कक्ष्या। "प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः" इत्यारब्धं सुभाषितम्  आसीत् अध्ययनांशः।

क्लेशं विना सुमधुरेण सुभाषितानाम् अवगमनेन छात्राः अतीव सन्तुष्टाः अभवन्। एते 'एच् एच् मुण्डूर्' विद्यालयस्य छात्रा: आसन्।  अध्ययन-सुविधया कथं  कक्ष्या क्लेशं विना चालनीयम्  इति प्रदर्शनमेव कक्ष्यायाः लक्ष्यम् आसीत्। छात्राणां मधुरातिमधुरां प्रतिक्रियां दृष्ट्वा अध्यापकवृन्ताः सन्तुष्टाश्च॥