OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 21, 2023

 वास्तुशास्त्रीयकार्यशालायाः शुभारम्भः

नवदेहलीस्थ -श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागेन २१ फरवरीतः ०३ मार्चं २०२३ तमं दिनाङ्कं यावत् “गोलपरिभाषा व लीलावती का क्षेत्रव्यवहार” इतिविषयमाधृत्य प्रवर्त्तितायाः एकादशदिवसीय-राष्ट्रियकार्यशालायाः उद्घाटनसत्रं २१ फरवरी तमे दिनाङ्के विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे समायोजितम्। अस्योद्घाटनसत्रस्य अध्यक्षाः विश्वविद्यालयस्य श्रद्धेयकुलपतयः प्रो.मुरलीमनोहरपाठकवर्याः आसन्। सत्रेऽस्मिन् मुख्यातिथिरूपेण विश्वविद्यालयस्य वास्तुशास्त्रविभागस्यैव पूर्वाचार्याः प्रो.ओङ्कारनाथचतुर्वेदीमहाभागाः समागताः आसन्। तत्र सारस्वतातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य आचार्याः प्रो. पी.वी.बी.सुब्रह्मण्यममहानुभावाः समुपस्थिताः आसन्। तथा च हरिद्वारस्थ-उत्तराखण्डसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतयः श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागाध्यक्षाः प्रो.देवीप्रसादत्रिपाठीवर्याणां सान्निध्यं प्राप्तम्। सत्रस्यास्य संयोजनं वास्तुशास्त्रविभागीयाचार्याः डॉ.अशोकथपलियालमहाभागैः कृतम्। सत्रेऽस्मिन् विश्वविद्यालयस्य भिन्न-भिन्नविभागस्याचार्याः, जिज्ञासवः, कार्यशालायाः प्रतिभागिनश्चोपस्थिताः आसन्। एषा कार्यशाला प्रतिदिनं भौतिकरूपेणैव विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे यथासमयेन समायोजिता भविष्यति।