OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 26, 2023

 मेघालयः, नागलान्ट् राज्ययोः श्वः निर्वाचनम्। 

नवदिल्ली> मेघालयः, नागलान्ट् इत्येतयोः राज्ययोः  श्वः विधानसभानिर्वाचनं सम्पद्यते। ह्यः सघोषप्रचारणानि शान्तिपूर्णतया  समाप्तानि। सोमवासरे प्रभाते सप्तवादनतः चतुर्वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। 

  मेघालयस्य ६० मण्डलेषु ५९ संख्याके श्वः निर्वाचनं भविष्यति। स्थानाशिनः देहवियोगात् एकस्य मण्डलस्य निर्वाचनं परिवर्तितम्। 

  नागलान्टे अपि षष्ठौ ५९ मण्डलेषु निर्वाचनं भविष्यति। एकस्मिन् मण्डले भा ज पा स्थानाशी प्रतियोगिराहित्येन निर्वाचितः आसीत्।