OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 6, 2023

 परवेशमुषरफः मृत्युं गतवान्।

   दुबाय्> सैनिकप्रतिलोमेन प्रजाधिपत्यसर्वकारं बहिर्नीत्वा पाकिस्थानं स्वायसमुष्ट्या शासितवान् भूतपूर्वः सैन्याधिपः राष्ट्रपतिश्च परवेशमुषफः गतदिने दुबायस्थे अमेरिक्कीयातुरालये मृत्युमुपगतवान्। ७९ वयस्कः सः कतिपयसंवत्सरैः 'अमिलोयिडोसिस्' नामकासाधारणरोगेण पीडितः आसीत्। 

  १९९८ तमे वर्षे पाकिस्थानस्य सैन्याधिपस्थानं प्राप्तः  मुषरफः १९९९ तमे वर्षे जातस्य कार्गिल् युद्धस्य सूत्रधारः आसीत्। तस्मिन् वर्षे एव सैनिकप्रतिलोमेन प्रधानमन्त्रिणं नवास शेरीफं बहिर्नीत्वा पाकिस्तानस्य शासनं स्वहस्तगतमकारयत्। नवसंवत्सरं यावत् तस्य शासनकालः आसीत्।