OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 26, 2023

 चरितं जनयति। तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। विक्षेपः जूण् मासे भविष्यति।

   नवदिल्ली> तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। 'जि एस् एल् वि मार्क् ३' आकाशबाणेन एव विक्षेपः। २०२३ जूण् मासे एव विक्षेपः भविष्यति इति ऐ एस् आर् ओ संस्थाध्यक्षेण उच्चते। विक्षेपः विजयं प्राप्तं चेत् चन्द्रोपरितले यानावतारणं कृतवतां गणे भारतं चतुर्थस्थानं प्राप्स्यते। अस्मिन् वारे अपि चन्द्रस्य दक्षिणध्रुवस्य समीपे वर्तमाने समतलप्रदेशे भविष्यति अवतारणम्। अनन्तरं 'रोवरः' उपरितले अवतीर्य अनुसन्धानं करिष्यति। चन्द्रस्य तापव्यत्ययः प्लास्मायाः सान्द्रता गुरुत्वाकर्षणं विकिरणं च अधिकृत्य भविष्यति अनुसन्धानम् ॥