OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 18, 2023

 कूपात् नूतनमीनः प्रत्यभिज्ञातः।


केरलम्> पत्तनंतिट्टा जनपदे मल्लप्पल्ली प्रदीप् तम्पी इति नामकस्य कूपात् एव मीनः प्रत्यभिज्ञातः। २०२० डिसम्बर् मासस्य प्रथमदिने एव मीनः उपलब्धः। केरलस्य मत्स्य-समुद्रानुसन्धानविश्वविद्यालयस्य वैज्ञानिकाः अस्य 'होराग्लानिस् पोपुली' इति वैज्ञानिकनाम दत्तम्। राष्ट्रे इतः पर्यन्तं १८ भूगर्भमीनविभेदाः एवं प्रत्यभिज्ञातेषु सन्ति। तेषु १२ विभेदानाम् उपलब्धिः केरलराज्यतः भवति। १९४८ तमे कोट्टयं जनपदात् लब्धः 'होराग्लानिस् कृष्णयि' भवति भारतराष्ट्रात् प्रत्यभिज्ञातेषु प्रथमः मीनः। अस्य सोदरविभेदः भवति 'होराग्लानिस् पोपुली'। अस्य मीनस्य नयने न स्तः किन्तु संवेदनक्षमतायुक्ताः श्मश्रवः सन्ति। त्वक् सुतार्यः इत्यनेन अन्तरिकावयवाः द्रष्टुं शक्यन्ते। ३१ मिल्लीमीट्टर् दीर्घयक्तः भवति अयम्। अनुसन्धानमधिकृत्य 'वेर्टिब्रेट् सुवोलजी' इति अनुसन्धान-पत्रिकायाम् अनुसन्धान परिणामं   प्रकाशितम् अस्ति।