OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 1, 2023

 हरिण शाबकं लक्ष्यं कुर्वाणः लुब्धकः - समीपं प्रति हरिणिमाता- द्रष्टारः अद्भुतपरतन्त्राः।

    शत्रून् स्नेहयितुं विशालं मनः आवश्यकम्, तदपि आत्मजं हन्तुमुद्युक्तम् कश्चन लुब्धकं प्रति स्नेहयितुम्। तादृशरीत्या एकं वार्ताचित्रं प्रचलति सामाजिकमाध्यमेषु। मात्रा हरिण्या स्वस्य शाबकस्य हननाय आगतस्य लुब्धकस्य मनपरिवर्तनं  स्नेहेन साधिता।  अस्याः घटनायाः चलनचित्रखण्डः इदानीं सामाजिकमाध्यमेषु अधिकप्रसृतः वर्तते। 

     भारतस्य वनपालकेन सुशान्तनन्देन इदं दृश्यं सामाजिक-माध्यमेषु प्रसारितम्। वनप्रदेशे मृगयार्थम् आगतः कश्चित् पुरुषः दूरे एकं हरिणशाबकं दृष्ट्वा नालिकाशस्त्रं  शाबकस्योपरि लक्ष्यीकृतवान्। माता हरिणी भयेन ततः गमनं न कृतवती। किन्तु सधैर्यं लुब्धकस्य समीपं प्राप्तवती च। किमधिकं  हरिण्याः आगमनं दृष्ट्वा लुब्धकः स्तब्धः अभवत्। स्वस्य समीपे आगतायाः हरिण्याः दैन्ये नेत्रे दृष्ट्वा लुब्धकस्य हृदयं करुणापूरितम् अभवत्। सः वात्सल्येन हरिण्याः शिरसि संस्पृशत्। मृगयाविनोदात् अधिकं सुखं  मृगलालनेन लभते इति पादटिप्पणीसहितेन अयं चलनखण्ड: अनस्यूतं  प्रसार्यमाणः वर्तते।