OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 1, 2023

 आन्ध्राप्रदेशे हिन्दुधर्मप्रचारणाय संरक्षणाय च सर्वकारेण३००० मन्दिराणि निर्मीयन्ते। 

   अमरावती> आन्ध्राप्रदेशे सर्वासु जिल्लासु मन्दिरसान्निध्यं दृढीकर्तुं विपुलया रीत्या मन्दिरनिर्माणमारब्धमिति राज्यसर्वकारः। हिन्दुधर्मस्य संरक्षणं प्रचारणं च लक्ष्यीकृत्य एव प्रक्रमोऽयम्। तदर्थं मुख्यमन्त्रिणा वै एस् जगन् मोहन् रेड्डिणा निर्देशाः दत्ताः इति उपमुख्यमन्त्रिणा कोट्टु सत्यनारायणेन प्रतिवेदितम्। तिरुमला तिरुप्पति देवस्थानस्य श्रीवाणी ट्रस्ट् इत्यनेन मन्दिरनिर्माणार्थं दशलक्षं रूप्यकाणि प्रदत्तानि। १,३००  मन्दिराणां निर्माणं समारब्धम् । १,४६५ मन्दिराणि निर्माण-पट्टिकासु सन्निवेशितानि। अवशिष्टानां मन्दिराणां निर्माणं सन्नद्धसंघट्टनानां साहाय्येन पूर्तीकरिष्यन्ति।