OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 7, 2023

 मेघालये नागालान्टे च नूतनप्रशासनस्य शपथारोहः

कोण्राड् सङ्मा
अद्य। 
नेफ्यू रियो

नवदिल्ली> मेघालयराज्ये कोण्राड् सङ्मा इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं अद्य सत्यशपथं करिष्यति। एन् पि पि नामकराजनैतिकदलस्य नेत्रे सङ्मावर्याय ४५ सामाजिकानां सहयोग अस्तीति सूच्यते। भाजपादलस्य सहयोगोSपि अस्मै लप्स्यते। 

  नागालान्टे तु एन् डि डि पि दलस्य नेता नेफ्यू रियो इत्यस्य नेतृत्वे नूतनं प्रशासनं कुजवासरे मध्याह्ने कोहिमायां सत्यशपथं करिष्यति। ३७ स्थानानां  सुव्यक्तं भूरिपक्षं प्राप्तवान् सः पञ्चमवारमेव मुख्यमन्त्रिपदमावहति। एन् डि डि पि - भाजपासख्यसर्वकाराय प्रायः अन्ये सर्वे दलाः अपि सहयोगं कुर्वन्तीत्यतः विपक्षदलमपि नास्तीति निश्चितम्।