OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 9, 2023

 एस् एस् एल् सि वार्षिक परीक्षायाः शुभारम्भः; HSS परीक्षाः श्वः। 

कोच्ची> केरलेषु माध्यमिकस्तराध्ययनश्रेण्याः अन्तिमा सार्वजनीनपरीक्षा SSLC नामिका अद्य आरब्धा। ४,१९,५५४ छात्राः परीक्षार्थं पञ्जीकृताः सन्ति। लक्षद्वीपः, गल्फ् देशान् चाभिव्याप्य २८६० परीक्षाकेन्द्राणि विद्यन्ते। अद्य संस्कृतं, मलयालम्, अरबी इति ऐच्छिक विषयाणां परीक्षाः सम्पन्नाः। 

   उच्चतरविद्यालयछात्राणां वार्षिकपरीक्षाः श्वः आरप्स्यन्ते। +२ विभागे ४,४२,०६७ छात्राः,+१ विभागे ४,२५,३६१ छात्राश्च परीक्षार्थिनः सन्ति। 

   सर्वाः परीक्षाः प्रातः सार्धनवादनतः आरभ्यमाणरीत्या एव क्रमीकरणानि विधत्तानि।