OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 16, 2023

 ओस्कार् पुरस्कारेण भारतं बहुमानितम्। 

लोसाञ्जलस् > ९५ तमे ओस्कार् पुरस्कारे भारताय मधुरयुगलम्। 'आर् आर् आर्' इत्यस्मिन् चलच्चित्रे 'नाट्टु नाट्टु' इत्यारभ्यमाणं गानं श्रेष्ठतमगानस्य तथा कार्तिकी गोण्सीवल्स् इत्यस्य निदेशकत्वे कृतं 'The Elephant Whisperers' नामकं ह्रस्वचित्रस्य च पुरस्काराय चितम्। 

  एस् एस् राजमौलिनः निदेशकत्वे साक्षात्कृतं तेलुगुभाषाचलच्चित्रं भवति 'आर् आर् आर्'। तस्मिन् चन्द्रबोसः विरच्य एम् एम् कीरवाणिवर्येण दत्तसंगीतं नाट्टु नाट्टु इति गानाय पूर्वं गोल्डण् ग्लोब् पुरस्कारः, Hollywood Critics Association पुरस्कारश्च लब्ध आसीत्।