OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 10, 2023

 इन्स्टग्रामे ५०००० अनुयायिनः! दशमीकक्ष्यायाः छात्रा वञ्चिता। पितुः वित्तकोशलेखात् धनं विनष्टम्।

    इन्स्टग्रामे अनुयायिनां संख्या संवर्धयितुं साहाय्यं करिष्यामि इत्युक्त्वा दशमीकक्ष्याछात्रायाः सकाशात् ५५००० रूप्यकाणि कपटमार्गेण स्वायत्तीकृतानि। मुम्बैदेशस्था षोडशवयस्का एव वञ्चिता। छात्रा पितुः वित्तलेखात् एतावत् धनं प्रेषितवती। घटनायामस्यां प्रकरणं दापयित्वा अन्वेषणम् आरब्धमिति आरक्षकैः ज्ञापितम्। मार्च मासस्य प्रथमे दिने सोनालि सिंह् नाम इन्स्टाग्रां प्रत्यभिज्ञानलेखात् एव छात्रायाः अनुसरसन्देशः लब्धः।