OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 12, 2023

 अमेरिक्कायां पुनरपि वित्तकोशक्षयः। 


मुम्बई> अमेरिक्कायां २००८ तमस्यानन्तरं पुनरपि बृहत् वित्तकोशक्षयः। संरम्भकसंस्थानां कृते बृहत् रीत्या धनराशिं दीयमानः सिलिक्कण् वालि नामकः वित्तकोशः क्षयंगत इति निक्षेपकाः निगदिताः। कालिफोर्णियास्थे वित्तकोशनियन्त्रणनियुक्तः Department of Financial Protection and Innovation नामक संस्थया वित्तकोशः पिहितः इति प्रख्यापितः। 

  यु एस् राष्ट्रे मूल्यवर्धनं नियन्त्रयितुं वृद्धिमानं लम्बतया संवर्धितमासीत्। कोविड्व्यापनहेतुतया संरम्भकाणां कृते राशिदानं चन्यूनीकृतम्। एतद्वयं च सिलिक्कण्वालि वित्तकोशं आर्थिकदुरवस्थाम् अपातयत् । निक्षेपकाश्च स्वीयान् निक्षेपान् प्रत्याहर्तुं उत्सुकाः अभवन्। अत एव वित्तकोशस्य पिधानहेतुरिति सूच्यते।