OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 10, 2023

 संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।

वार्ताहरा - रमा टी के

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन   समकालीन -ज्ञान -  पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः  उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्

आधुनिकसाहित्यानां संस्कृतभाषिकानुवादः बहु उपकरिष्यति इति सः उद्बोधितवान्। संस्कृतभारत्याः अखिलभारतप्रशिक्षणप्रमुखः डा. एच्. आर् विश्वासः मुख्यातिथिः आसीत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागाध्यक्षः प्रोफ. के . के शैन् महाशयः एव कार्यक्रमस्यास्य संयोजकः।  केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रीविभागस्य आचार्यः श्रीगिरिधररावः कार्यक्रमेऽस्मिन् कृतज्ञतां व्याहरत्। कार्यशालायामस्यां राज्यस्य विभिन्नस्तरेभ्यः आगताः  अध्यापकाः शोधच्छात्राः अन्ये संस्कृतज्ञाः मिलित्वा उपषष्ठिजनाः  भागं स्वीकुर्वन्ति। रविवासरे पञ्चवादने कार्यशाला सम्पन्ना भविष्यति।