OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 10, 2023

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।