OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 19, 2023

 ब्रह्मपुरम् अग्निबाधा - कोच्चि नगरसभां शतकोटिरूप्यकाणां द्रव्यदण्डः। 

नवदिल्ली> ब्रह्मपुरस्थे मालिन्यसंस्करणस्थाने सप्ताहद्वयात्पूर्वं दुरापन्नामग्निबाधामाधारीकृत्य राष्ट्रियहरितन्यायासनेन [National Green Tribunal] कोच्चिनगरसभा १००कोटिरूप्यकाणि दण्डेन विहिता। मासैकाभ्यन्तरे राज्यकार्दर्शिमुख्यस्य समक्षं दण्डद्रव्यं समर्पणीयम्। दण्डद्रव्यं अग्निबाधानन्तरं सञ्जातेभ्यः सामान्यजनानां स्वास्थ्यप्रकरणेभ्यः विनियोजयितव्यः इति न्यायासनेन आदिष्टम्। 

  मार्च् द्वितीयदिनाङ्कतः २३तमपर्यन्तम् अनुवर्तमाने अग्निप्रकाण्डे एरणाकुलं जनपदस्थीयाः जनाः अभूतपुर्वं क्लेशमनुभवन्ति स्म। जनपदे समीपजनपदेषु च व्यापृतेन विषधूमजालेन बहुप्रकाराः अस्वास्थ्यप्रकरणाः जाताः। न केवलं वायुः नद्यादीनि जलस्रोतांस्यपि मलिनीभूतानि। अतः केन्द्रहरितन्यायासनेन स्वमेधया एव प्रकरणः स्वीकृतः।