OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 6, 2023

आलुकभर्जनम् इष्टाहारः वा?  एवं चेत् क्रमेण विषादरोगिणो भविष्यन्ति।

   भर्जाहारस्य विषादस्य च मिथः सम्बन्धोऽस्ति इति अध्ययनफलम्। विश्वस्मिन् अनुभूयमानासु मानसिकसमस्यासु प्राधान्यमावहतः विषादरोगः, अत्युत्कण्ठा च। भर्जितानि तथा अतिमधुराणिआहारपदार्थानि सुरापानं च मानसिकसमस्यां जनयितुं प्रभवन्ति इति वैज्ञानिकै: पूर्वं सूचितमासीत्। इदानीं आलुकभर्जनसमानानाम् (french fry ) अन्यानां भर्जनानाम् अशनद्वारा अपि मानसिकरोगणि जायन्ते इति अध्ययनानि सूचयन्ति। भर्जनेन आहारात् पोषकांशानि विनष्टानि भवन्ति। शरीरे विनाशकराणि रासायनानि दुरुत्पाद्यन्ते। एतानि शरीरस्य स्थूलत्ववर्धनाय हेतवः भवन्ति। आलुकसदृशेषु भर्जनेषु ''अक्रिलमैड्' नाम रासायनं दुरुत्पाद्यते। एतत् अमितोत्कण्ठा तथा विषादरोगाणि च जनयन्ति।