OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 8, 2023

 केरले यन्त्रनौकादुर्घटना - २२ जनाः अपमृत्युमुपगताः।

तानूरे यन्त्रनौकादुर्घटनायां रक्षाप्रवर्तनानि कुर्वन्तः जनाः। 

+ दुरन्तः मलप्पुरं जनपदे पूरप्पुष़ा नद्याम्। 

+ दुर्घटनाग्रस्ताः विनोदयात्रिकाः ४० अधिकाः जनाः। 

+ मृतेषु अधिकाः महिलाः बालकाश्च। 

तानूर्> केरले मलप्पुरं जनपदस्थे तानूर् प्रदेशे  विनोदयात्रिकान् ऊढ्वा प्रस्थिता यन्त्रनौका पूरप्पुष़ा नद्यां निपत्य २२ जनाः मृत्युमुपगताः। उपचत्वारिंशत् यात्रिकेषु अष्ट जनाः रक्षिताः सन्ति। रविवासरे सायं सार्धसप्तवादने दुर्घटनेयमापन्ना।

 नौकास्वामी यन्त्रनौकायां अनुमतेरधिकान् जनान् प्राविशत्। तदेव दुर्घटनाकारणमिति वदन्ति। भूरिशः यात्रिकाः रक्षासामग्र्यरहिताः आसन्निति सूच्यते। प्रकाशाभावात् पङ्काधिक्यवशात् च रक्षाप्रवर्तनं दुष्करं जातम्। 

 दुर्घटनायामस्यां प्रधानमन्त्री नरेन्द्रमोदी दुःखं प्राकाशयत्। मुख्यमन्त्री पिणरायि विजयः, इतरे मन्त्रिणः विपक्षनेता इत्यादयः दुर्घटनास्थानं सम्प्राप्य रक्षाप्रवर्तनानाम् एकीकरणं कृतवन्तः।