OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 9, 2023

 कर्णाटके सघोषप्रचारणं  समाप्तम् - श्वः जनविधिः। 

बङ्गलुरु> कर्णाटकराज्यस्य २२४ विधानसभामण्डलेषु श्वः निर्वाचनं सम्पत्स्यति। भाजपा-कोण्ग्रस्-जेडिएस्आदीनां राजनैतिकदलानां सघोषप्रचारणं सोमवासरे सायं स्वकीयैः अत्युज्वलशक्तिप्रदर्शनैः समाप्तम्। 

   भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः, दलस्य राष्ट्रियाध्यक्षः जे पि नड्डा इत्यादयः राष्ट्रियनेतारः राज्यस्तरीयनेतृभिः सह प्रचारणस्य नेतृत्वमावहन्। शनिवासरे रविवासरे च प्रधानमन्त्री नरेन्द्रमोदी ३४ कि मी दूरं वीथिप्रदर्शनं कृत्वा प्रचारणाय उत्साहं कारितवान्। कोण्ग्रस् दलाय राष्ट्रियाध्यक्षः मल्लिकार्जुनखार्गे, राहुलगान्धी, सोणियागान्धी, प्रियङ्का गान्धी इत्यादयः नेतारः उत्साहदायकं प्रचरणं कृतवन्तः। जेडिएस् दलस्य देशीयाध्यक्षः एछ् डि देवगौडावर्यः  प्रचारणस्य नेतृत्वमावहत्। 

  राज्ये विद्यमानानां राजनैतिकसमस्यानामुपरि राज्यस्य प्रादेशिकक्षेत्रेषु विद्यमानानि धर्म-जातिचिन्तनानि जयपराजयेषु निर्णायकानि भविष्यन्तीति राजनैतिकविचक्षणाः सूचयन्ति। त्रिकोणस्पर्धाभिः सविशेषश्रद्धार्हेषु मण्डलेषु फलनिर्णयः प्रवचनातीत इति सूच्यते।