OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 1, 2023

 चीनीयः डिङ् लिरनः विश्वचतुरङ्गवीरः। 

डिङ् लिरनः। 

   अस्ताना [कसाखिस्थानं]> विश्वचतुरङ्गक्रीडायाः नूतनचक्रवर्तिपदे चीनदेशीयः डिङ् लिरन् नामकः। कसाखिस्थानस्य अस्तानानगरे सम्पन्ने अत्यन्तम् उद्वेगभरिते प्रतिद्वन्द्वे रूसदेशीयं इयान् नेप्पोम्निषि नामकं पराजित्य एव ङिङ् लिरिनः विश्वकिरीटं प्राप्तवान्। विश्वचतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयः भवत्येषः ३० वयस्कः। इदानीं सः विश्वक्रीडकश्रेण्यां तृतीयस्थाने वर्तते। 

 स्पर्धारम्भतः एव उद्वेगभरिता आसीत् क्रीडा। निश्चिते १४ वारे च युगलौ प्रतियोगिनौ सप्त सप्त अङ्कानि समाहृत्य समस्थितिं प्राप्तवन्तौ। अनेन क्रीडाबन्धभञ्जनं [Tie breaker] आवश्यमभवत्। तस्य त्रिष्वपि स्पर्धासु डिङ् लिरनः इयान् नेप्पोवश्च समस्थितिं प्राप्तौ। चतुर्थस्पर्धायामपि समस्थितिं प्राप्यमाणायां अत्यन्तगभीराभिः चटुलाभिश्च  खेलनक्रियाभिः लिरनः अग्रे अगच्छत्। लिरनस्य ६८ तमे शारिप्रचालने नेप्पोवः पराजयम् अनुमोदितवान्। विश्व चतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयो भवति डिङ् लिरनः।