OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 3, 2023

संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति - स्वामी तुरीयामृतानन्दमयी

- ज्योतिष्मयी वी

     संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति इति कोल्लम् अमृतानन्दमयीमठस्य स्वामी तुरीयामृतानन्दमयी उक्तवान्।विश्वसंस्कृतप्रतिष्ठानस्य (संस्कृतभारती केरलराज्यम्)  राज्यवार्षिकसम्मेलनम् कोल्लंमहानगरे  उद्घाटनं कृत्वा भाषमाणः आसीत् सः। 

सन्दर्भऽस्मिन् पूजनीयाय पण्डितवरेण्याय स्वप्रभानन्दस्वामिपादाय पण्डितरत्नपुरस्कारं दत्त्वा संस्कृतभारती  अनुगृहीता जाता। श्रीमान् टि.सि.सजीवन् महाशयः शर्माजीपुरस्कारं प्राप्तवान्।

पद्मपुरस्कारालङ्कृत: विख्यातः इतिहासकारः डा. सी.ऐ.ऐसक् महाशयः मुख्यातिथिरासीत्। पण्डितैः आचार्यै: संस्कृतोपासकैश्च विद्योतमाना आसीत् सभा। एप्रिल् 30 मेय् 1 दिनाङ्कयोः प्रवृत्ते संवत्सरीय मेलने  प्रन्तीयाध्यक्षः डा पी के माधवः, अखिलभारतीय सह संघटनामन्त्री  जयप्रकाशः, वनवासी कल्याणाश्रमं क्षेत्रीयप्रचारकः ऐ गेपालकृष्ण:, अखिलभारतीय सहकार्यदर्शी डा. पा नन्दकुमारः च मार्गदर्शकाः आसन्।  राज्यस्तरीयं प्रतिनिधिसभामेलने  शताधिकाः प्रतिनिधयः आसन् ।