OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 12, 2023

 सेवानिरता युववैद्या उन्मादिना अध्यापकेन निहता।


अध्यापकक्षेत्राय लज्जाकरी, वैद्यकमण्डले अत्यपूर्वा च घटना।

अपराधी सन्दीपः 

कोल्लम्> अन्येषां प्राणरक्षणाय अहोरात्रं प्रयतमाने वैद्यमण्डले परिभ्रान्तिं स्तोभं च जनयन्ती प्रथमा बलिदानिनी अभवत् केरलतः डो वन्दना दासः। कोल्लं जनपदस्थे कोट्टारक्करा सर्वकारीयातुरालये प्रयोगाभ्यासवैद्यरूपेण [House surgeon]  सेवां कुर्वन्ती वन्दना दासः [२३] बुधवासरे प्रत्युषसि स्वकृत्यनिर्वहणाभ्यन्तरे आरक्षकवृन्दस्य साक्षित्वे  किमपि प्रकोपनं विना मदोन्मत्तेन केनचन अध्यापकेन निहता अभवत्। कोट्टयं जनपदे कुरुप्पन्तराप्रदेशीया भवति। 

   कोल्लं जनपदस्थे कुटवट्टूर्  प्रदेशवासी नेटुम्पना मध्यस्तरे [Upper primary] विद्यालये अध्यापकः सन्दीप आसीत् अक्रमी। केनापि प्रकारेण पादव्रणितः सः आरक्षकाणां साहाय्येन प्रथमिकशुश्रूषणाय आतुरालयं प्राप्तः आसीत्। मधुपानोन्मादेन मग्नः सः वन्दनादासस्य नेतृत्वे अनुवैद्याभिः  शुश्रूषमाणः आसीत्। झटिति अक्रमासक्तः सः प्रथमम् अनुगतं बन्धुं ततः अनुवैद्याः च तत्रस्थैः कर्तर्याद्युपकरणैः आक्रम्य दृष्टिगोचरान् सर्वान् आक्रमितवान्। आक्रमणाधीनाः अभवन्  आरक्षकाः, तथापि सर्वेषु मिलित्वा अन्यरक्षासु प्राप्तवत्सु इतिकर्तव्यताविमूढां  निरालम्बां वैद्यां वन्दनां सः प्रकोष्ठे पातयित्वा कर्तरिकया बहुवारं कुट्टयति स्म। तत्रत्येन  वरिष्ठवैद्येन तां रक्षयितुं दूरमाकृष्टापि अपि सन्दीपेन पुनरपि कर्तर्या विदारिता। कण्ठे, वक्षःस्थले, शरीरस्य पृष्ठभागे च ११ वारं विदलनविधेयां  तां रक्षितुं न अशक्यत। अनन्तपुर्यां सर्वकारीयवैद्यकलालयं प्रवेशिता सा प्रातः अष्टवादने अकालमृत्युं प्राप। अन्ये आक्रमणविधेयाः दश जनाः व्रणिताः उपचर्यायां वर्तन्ते। 

  सन्दीपः आरक्षकैः गृहीतः पूर्तीकृतप्रक्रमः कारागृहबद्धः वर्तते।