OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 12, 2023

 महाभारतस्य चलनचित्राख्यानमेव मम जीवनलक्ष्यम् - एस् एस् राजमौली। 


रेवती के एम्



बाहुबली, आर् आर् आर् इत्यादि अत्युज्वलचलनचित्राणां निदेशकस्य एस् एस् राजमौली महोदयस्य अग्रिमचलनचित्राय प्रेक्षकाः औत्सुक्येन प्रतीक्षां कुर्वन्ति। बहुकालादेव सः महाभारतस्य आधारेण चलनचित्रं निर्मातुं स्वप्नं पश्यति, शीघ्रमेव तत्पूर्णं भविष्यतीत्यपि हैदराबाद् नगरे तेनोक्तम्। दशभागेषु महाभारतं चलनचित्रमचिरादेव आगमिष्यति। एतदेव मम जीवनलक्ष्यम् इत्यपि तेनोक्तम्।