OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 10, 2023

 इम्रान् खानः निगृहीतः; पाकिस्थाने कलहसमानावस्था। 


इस्लामबादः> पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री इम्रान् खानः सीमारक्षासेनया इस्लामबादस्थे उच्चन्यायालयात् निगृहीतः। कुजवासरे भ्रष्टाचारप्रकरणे वादप्रक्रमाय न्यायालयं प्राप्तं इम्रान् खानं बलात्कारेणैव निगृहीतः। निग्रहणवार्तां ज्ञात्वा राष्ट्रे सर्वत्र अक्रममयाः प्रतिषेधाः सञ्जाताः। 

  २०२२ एप्रिल् मासे अविश्वासप्रकरणेन प्रधानमन्त्रिपदात् निष्कासितं इम्रान् खानं विरुध्य भीकरप्रवर्तनं हत्या धर्मनिन्दा कलहाह्वानम् इत्यादीनि १४० अधिकानि प्रकरणानि विहितानि।