OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 4, 2023

 'A॥ ।ndia Radio इति राष्ट्रस्य रेडियोजालम् इत: परं केवलम् आकाशवाणी इति नाम्ना एव ज्ञास्यते। 

-राणिमोल् एन् एस्

   नवदिल्ली> रेडियो वार्ता प्रक्षेपणस्य आरम्भे श्रूयमाणं 'This is All India Radio' इति वाक्यं सर्वेषां भारतीयानां कृते सुपरिचितमस्ति। परन्तु पूर्वं विश्वस्य बृहत्तमेषु रेडियोजालेषु अन्यतमम् All India Radio इति नाम यत् निर्दिष्टमासीत् तत् इतः परं न भविष्यति। प्रसारभारत्याः अधीनं रेडियोजालम् आकाशवाणी इति नाम्ना एव पूर्ववत् ज्ञास्यते। 

       बुधवासरे आकाशवाण्याः महानिदेशकस्य पक्षतः अस्मिन् विषये आधिकारिकघोषणा अभवत्। सूचनाप्रसारण (Information and Broadcasting) मन्त्रालयेन एव प्रसारभारतीयरेडियो-एककस्य आकाशवाणी इति नाम एव उपयोक्तव्या इति निर्देशः प्रदत्तः। आङ्ग्लेयप्रशासकानां कालतः भारते सञ्चाल्यमानायाः संस्थायाः भविष्यकाल-प्रसारणं कार्यक्रमाश्च आकाशवाणी- 'ब्रान्ड्' एव प्रस्तोष्यति।

         आङ्ग्लभाषायाः 'आल् इण्डिया रेडियो' इति पदं औपनिवेशिकावशेषरूपेण दृश्यते । एतस्मात् मुक्तिं प्राप्य केवलम् आकाशवाणी इति नाम भवतु इति आवश्यकता बहुभ्यः वर्षेभ्य: पूर्वमेव आरब्धम् आसीत्। १९९७ तमात् संवत्सरात् अस्मिन् विषये चर्चाः अभवन्।