OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 15, 2023

 कर्णाटके कोण्ग्रस् दलाय अत्युज्वलविजयः। 

बङ्गलुरु> कर्णाटकराज्यस्य विधानसभानिर्वाचने शासनदलं भाजपां पराजित्य कोण्ग्रस् दलं अत्युज्वलविजयं स्वायत्तीकृतवत्। आहत्य २२४ स्थानेषु १३६ संख्याकं कोण्ग्रस् दलेन प्राप्तम्। अद्यावधि शासनं कृतवत् भाजपादलं केवलं ६५ स्थानानि इति सङ्कुचितम्। राजविधातृपदं [King Maker] स्वप्नं पश्यत् जे डि एस् दलं १९ स्थानानि प्राप्य तृप्तमभवत्। स्वतन्त्रान् अभिव्याप्य इतरैः चत्वारि स्थानानि प्राप्तानि। 

  बङ्गलुरुं विना राज्यस्य पञ्चसु क्षेत्रेषु कोण्ग्रस् दलस्य आधिपत्यमभवत्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः इत्यादयः भाजपादलस्य प्रमुखाः प्रचारणे नेतृत्वमावहन् तथापि पराजयमनुभूतमिति दलाय महान् प्रत्याघातः अभवत्। कोण्ग्रस् दलाय तु शक्तं ऊर्जप्रदाकौषधं भवत्येषः विजयः।