OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 27, 2023

 किं पृथिवी पलास्तिकात् मुक्तिं प्राप्स्यति? पलास्तिकं खादन्तान् कवकान् आविष्कृत्‍य चीनदेशस्य गवेषकाः:।

-राणिमोल् एन् एस्

 चीनदेशस्य गवेषकैः पलास्तिकमालिन्यानां संसाधनस्य नूतना सम्भावना प्रकाशिता। सम्प्रति विश्वस्मिन् पलास्तिक-अवशिष्टानां पुनः प्रयोगः अथवा तापोर्जरूपेण परिवर्तनमेव क्रियते। तदा अपि तस्मात् द्विगुणाधिकानि पलास्तिकअवकराणि स्थले समुद्रे च अवशिष्यन्ते। अस्य उन्मूलनस्य विषये सक्रियरूपेण गवेषणान् कुर्वन्नपि वैज्ञानिकदृष्ट्या कोऽपि प्रयासः सफलो न अभवत्। अस्मिन् सन्दर्भे एव पलास्तिकं खादन्तः कवकाः (fungus) आविष्कृतवन्तः इति उक्त्वा चीनदेशस्य गवेषकाः बहिरागताः। क्यू गार्डन्स् इत्यस्य मतानुसारम् अद्यावधि पलास्तिकस्य भङ्गं कर्तुं समर्थाः ४३६ कवकविभेदाः जीवाणवश्च आविष्कृताः। चीनदेशस्य समुद्रतटीयलवणदलेषु एव एतैः विशेषं 'भौम प्लाटिस्फियर्' आविष्कृतम् इति क्यूनगरस्य रॉयल वनस्पति उद्यानेन (Royal Botanical Gardens) ज्ञापितम्।