OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 22, 2023

 कर्णाटके सिद्धरामय्यसर्वकारः अधिकारं प्राप्तः। 

डि के शिवकुमारः एकैकः उपमुख्यमन्त्री।

शपथवाचनानन्तरं सिद्धरामय्यः डि के शिवकुमारश्च कोण्ग्रस् नेत्रा राहुलगाधिना सह अभिवादनं करोति। 

बङ्गलुरु> कर्णाटकराज्ये साप्ताहिकं यावत् दीर्घितायाः चर्चायाः पर्यालोचनायाश्च अन्ते कोण्ग्रसनेतुः सिद्धरामय्यस्य नेतृत्वे नूतनः सर्वकारः अधिकारपदं प्राप्तः। शनिवासरे बङ्गलुरुस्थे  श्रीकण्ठीरवक्रीडाङ्कणे आयोजिते कार्यक्रमे मुख्यमन्त्रिरूपेण सिद्धरामय्यः, उपमुख्यमन्त्रिरूपेण डि के शिवकुमारः , इतरे अष्ट मन्त्रिणश्च शपथवाचनं कृतवन्तः। केन्द्रप्रशासनस्य विपक्षश्रेण्यां वर्तमानाः प्रायशः सर्वे राजनैतिकदलनेतारः वेदिकायां  सहस्रशः अनुयायिनः कोण्ग्रसप्रवर्तकाश्च शपथकार्यक्रमस्य साक्षिणः अभवन्। 

  सत्यप्रतिज्ञानन्तरं विधानसौधे आयोजिते प्रथमे मन्त्रिमण्डलोपवेशने कोण्ग्रसदलेन दत्तानि पञ्चप्रकाराणि निर्वाचनवाग्दानानि अङ्गीकृतानि। सोमवासरतः त्रिदिवसीयं विधानसभासम्मेलनं कारयितुं च निर्णयः अभवत्।