OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 18, 2023

 दर्शकान् स्वीकर्तुं भारतस्य राष्ट्रपतिभवनं सुसज्जम्। जून् मासस्य प्रथमदिनादारभ्य प्रवेशनाय अनुमतिः।

 जून् मासस्य प्रथमदिनादारभ्य सप्ताहेषु षट्दिनानि दर्शकान् स्वीकर्तुं राष्ट्रपतिभवनं सुसज्जम् अभवत्। सप्ताहे मङ्गलवासरादारभ्य रविवासरपर्यन्तं प्रातकाले ९.३० वादनतः आरभ्य सायं ४.३० वादनपर्यन्तं सप्तवारं निर्धारितसमयेषु (slot) एव प्रवेशनावसरः। विरामदिनेषु प्रवेशनं नास्ति। सर् एड्विन् लूडियन् महोदयस्य तथा हेर्बड् बेक्कर्वर्यस्य च आभिमुख्ये निर्मितं राष्ट्रपतिभवनं शिल्पचारुतया सहृदयान् हठात् आकर्षति। एच् (H) इति आङ्गलाक्षरस्य सारूप्येन एव भवनं निर्मितम्।