OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 6, 2024

 ब्रिटने 'लेबर् पार्टी' प्रशासनपदे।

केयर् स्टामरः प्रधानमन्त्री। 

नियुक्तप्रधानमन्त्री केयर् स्टामरः। 

      लण्टनं> ब्रिटने १४ संवत्सराणि यावत् अधिकारपदं वहन्तं 'कण्सर्वेटीव् पार्टी' इति राजनैतिकदलं पराभूय लेबर् पार्टी दलः अधिकारपदं प्राप। पार्टिनेता मानवाधिकारप्रवर्तकः नीतिज्ञश्च केयर् स्टामरः प्रधानमन्त्री भविष्यति। आहत्य ६५० स्थानेषु ६४९ स्थानानां फलप्रख्यापनं कृते सति ४१२ स्थानानि 'लेबर् पार्टी'दलेन उपलब्धानि। कण्सर्वेटीव् पार्टीदलेन १२१ स्थानानि प्राप्तानि। 

  वर्तमानीनप्रधानमन्त्री कण्सर्वेटीव्दलनेता  भारतवंशजः ऋषि सुनकः त्यागपत्रं समर्पितवान्। नित्योपयोगवस्तूनां मूल्यवर्धनं, देशान्तराधिवासः, 'ब्रक्सिट्' इत्यस्य विफलता इत्यादीनि  ऋषि सुनकप्रशासनस्य कण्सर्वेटीव् दलस्य च पराभवे कारणानि अभवन्।