OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 9, 2024

 रष्यायाः आक्रमणेन युक्रैने ३६ मरणानि। 

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे इतरप्रदेशेषु च रष्यया  मिसैल् आयुधेन कृते आक्रमणे ३६ जनाः निहताः, २४० जनाः आहताश्च। युक्रैनस्य बृहत्तमः बालकातुरालयः अपि आक्रमणे विनाशितः। 

  आतुरालयस्थाः २० जनाः हताः। 

  चत्वारिंशदधिकानि मिसैल् आयुधानि सोमवासरे युक्रैने निपतिताः इति राष्ट्रपतिना व्लोदिमर् सेलन्स्कि वर्येणोक्तम्। वासमन्दिरसमुच्चयाः सार्वजनीनसंस्थाश्च आक्रमणलक्ष्यमिति च तेनोक्तम्।