OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 2, 2024

 जलपाते अवतीर्णेषु दशसु पञ्च गिरिजलप्रपाते निमज्य मृत्युंगताः। 

लोणावालदुरन्ते निपतिताः। 

पूणे> महाराष्ट्रे पूणेसमीपस्थे लोणावाला जलप्रपातुं द्रष्टुमागतेषु विनोदयात्रिकेषु पञ्च जनाः गिरिजलप्रपाते निमज्य मृत्युमुपगताः। 

  १८ अङ्गयुक्तेषु  यात्रिकेषु एकपरिवारीयाः दश जनाः जलप्रपाते अवतरितवन्तः। तस्मिन् समये जलप्रवाहः मन्दमासीत्। किन्तु झटित्येव तत्र वृष्टिकारणेन महान्  गिरिजलप्रवाहः सञ्जातः। दश जनाः एकीभूय एकत्र स्थितवन्तः अपि जवे जलप्रवाहे निपतिताः। त्रयः तीर्त्वा रक्षां प्रापुः। द्वौ तीरस्थैः रक्षितौ। 

  हडपसर सय्यद् नगरवासी सहिस्त लियाखत् अन्सारी [३६] , तस्य चत्वारि अपत्यानि च मृत्युवशं प्रापुः।