OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 13, 2024

 विष़िञ्ञे केरलस्य विकासस्वप्नाः।

विष़िञ्ञं नौकाश्रयस्य उद्घाटनकार्यक्रमः।वेदिकायां केन्द्रमन्त्री,मुख्यमन्त्री,इतरे मन्त्रिणः च।

अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यति - सर्बानन्द सोनोवालः।

विकासाय ५००० कोटीनां भाण्डाभियोजना आवश्यकी - पिणरायि विजयः। 

आगामिसोपानत्रयं वर्षचतुष्टयेन पूर्तीकरिष्यति - करण अदानिः। 

तिरुवनंतपुरम्> केरलराज्यस्य भविष्यत् विष़िञ्ञं नौकाश्रयमाश्रित्य वर्तत इति मुख्यमन्त्री पिणरायि विजयः अवदत्। नौकाश्रयस्य अनुबन्धविकासाय ५००० कोटि रूप्यकाणां सविशेषा भाण्डाभियोजना [Package] आवश्यकीति तेन केन्द्रसर्वकारं प्रति निर्दिष्टम्। विष़िञ्ञं नौकाश्रयस्य उद्घाटनं कृत्वा भाषमाणः आसीत् मुख्यमन्त्री । 

   अनेन नोकाश्रयेण केरलं राष्ट्रं च अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यतीति केन्द्रमन्त्रिणा सर्बानन्द सोनोवालेन प्रतीक्षा प्रकटिता। राष्ट्रस्य वित्तसम्पादने निर्णायकं स्थानं वोढुं विष़िञ्ञं परियोजनया शक्यते इति तेनोक्तम्। 

   २०,००० कोटि रूप्यकाणां निक्षेपं प्रतीक्षमाणायाः परियोजनायाः आगामि त्रीणि सोपानानि वर्षचतुष्टयेन पूर्तीकरिष्यन्तीति नौकाश्रयस्य स्वामित्वमावहतः 'अदानि विष़िञ्ञं प्रैवट् लिमिटेड ' इत्यस्य निदेशकमुख्यः करण अदानिः सदृढमब्रवीत्। अनुबन्धपरियोजनया ७००० जनानां कृते कर्म दातुमवसरः अस्तीति तेनोक्तम्।