OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 27, 2024

 पारीसे रेल् यानश्रृङ्खलायां व्युत्क्रमश्रमः। 

पारीसः> ओलिम्पिक्स् उद्घाटनाय केवलं होरासु अवशिष्टासु फ्रान्सस्य टि जि वि इत्यतिशीघ्र रेल् यानश्रृङ्खलायां व्युत्क्रममजायत। पारीसस्य समीपस्थे रेल्वे क्षेत्रे तत्र तत्र दाहकश्रमः कृतः। संज्ञासङ्केताः विनाशिताः। 

  यूरोपीयराष्ट्रेभ्यः फ्रान्सस्य इतरस्थानेभ्यश्च पारीसनगरं प्रति अतिशीघ्र रेल् यानसेवाः निरस्ताः। अष्टलक्षाधिकं यात्रिकान् एतदपकर्म अबाधत। 

  उद्घाटनसमारोहं सङ्कीर्णयितुं उद्दिश्य कृतः आसूत्रितः प्रतिलोमोद्यम इति फ्रन्ञ प्रधानमन्त्रिणा गब्रियेल अत्तालेन प्रस्तुतम्। वामपक्षीयतीव्रवादिनः उत परितःस्थितिप्रवर्तकाः एवास्य पृष्ठतः इति सूच्यते। किन्तु सहस्रशः कर्मकरान् नियुज्य परिहारं कारयित्वा उद्घाटनसमारोहः सम्यक् कृतः।